रुद्राष्टाध्यायी पञ्चमोऽध्यायः

अथ नमकं

हरिः ॐ नमस्ते रुद्र मन्यवे उत ते इषवे नमः । बाहुभ्यामुत ते नमः ॥ १॥
या ते रुद्र शिवा तनूरघोराऽपापकाशिनी ।
तया नस्तन्वा शन्तमया गिरिशन्ताभिचाकशीहि ॥ २॥

यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे ।
शिवां गिरित्रतां कुरु मा हिंसीः पुरुषं जगत् ॥ ३॥

शिवेन वचसा त्वा गिरिशच्छा वदामसि ।
यथा नः सर्वमिज्जगदयक्ष्मं सुमना असत् ॥ ४॥

अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् ।
अहींश्च सर्वाञ्जम्भयन्त्सर्वाश्च यातुधान्योःधराचीः परासुव ॥ ५॥

असौ यस्ताम्रोऽरुण उत बभ्रुः सुमङ्गलः ।
ये चैनं रुद्रा अभितो दिक्षु श्रिताः सहस्रशः एषां हेड अवेमहे ॥ ६॥

असौ योऽवसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा अदृश्रन्नदृश्रन्नुदहार्यः स दृष्टो मृडयाति नः ॥ ७॥

नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।
अथो येऽस्य सत्त्वानोऽहं तेभ्योऽकरं नमः ॥ ८॥

प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम् ।
याश्च ते हस्ते इषवः परा ता भगवो वप ॥ ९॥

विज्यं धनुः कपर्दिनो विशल्यो बाणवानुत ।
अनेशन्नस्य या इषव आभुरस्य निषङ्गधिः ॥ १०॥

या ते हेतिर्मीढुष्टम हस्तै बभूव ते धनु ।
तयाऽस्मान्विश्वतस्त्वमयक्ष्मया परिभुज ॥ ११॥

परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः ।
अथो य ईषुधिस्तवारेऽस्मन्निधेहि तम् ॥ १२॥

अवतत्त्य धनुस्त्वं सहस्राक्ष शतेषुधे ।
निशीर्य शल्यानां मुखाः शिवो नः सुमना भव ॥ १३॥

नमस्ते आयुधायानातताय धृष्णवे ।
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥ १४॥

मा नो महान्तमुत मा नोऽर्भकं मा न उक्षमुत मा न उक्षितम् ।
मा नो वधीः पितरं मा उत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥ १५॥

मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नोऽश्वेषु रीरिषः ।
मा नो वीरान् रुद्र भामिनो वधीर्हविष्म॑न्तः सदमित्त्वा हवामहे ॥ १६॥

नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो
हरिकेशेभ्यः पशूनां पतये नमो नमः शष्पिञ्जराय त्विषीमते
पथीनां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो ॥ १७॥

नमो बभ्लुशाय व्याधिनेऽन्नानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो
नमो रुद्रायाततायिने क्षेत्राणां पतये नमो नमः सूतायाहन्त्यै वनानां पतये नमो नमो रोहिताय ॥ १८॥

नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमो नमः कृत्स्नायतया ॥ १९॥

नमः कृत्स्नायतया धावते तसत्त्वनां पतये नमो नमः सहमानाय निव्याधिने आव्याधिनीनां पतये नमो नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमो वञ्चते ॥ २०॥

नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमः सृकायिभ्यो जिघांसद्भ्यो मुष्णतां पतये नमो नमोऽसिमद्भ्यो नक्तञ्चरद्भ्यो विकृन्तानां पतये नमः ॥ २१॥

नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्योऽस्यद्भ्यश्च वो नमो नमो विसृजद्भ्यःः ॥ २२॥

नमो विसृजद्भ्यो विध्यद्भ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमः शयानेभ्य आसीनेभ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः ॥ २३॥

नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमोऽश्वेभ्योऽश्वपतिभ्यश्च वो नमो नम व्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम उगणाभ्यस्तृंहतीभ्यश्च वो नमो नमो गणेभ्यः ॥ २४॥

नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमः सेनाभ्यः ॥ २५॥

नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमो रथिभ्योऽरथेभ्यश्च वो नमो नमः क्षत्तृभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमो महद्भ्यो अर्भकेभ्यश्च वो नमः ॥ २६॥

नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमो निषादेभ्यः पुञ्जिष्टेभ्यश्च वो नमो नमः श्वनिभ्यो मृगयुभ्यश्च वो नमो नमः श्वभ्यः ॥ २७॥

नमः श्वभ्यः श्वपतिभ्यश्च वो नमो नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने ॥ २८॥

नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशयाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च नमो ह्रस्वाय ॥ २९॥

नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृधे च नमोऽग्र्याय च प्रथमाय च नम आशवे ॥ ३०॥

नम आशवे चाजिराय च नमः शीघ्राय च शीभ्याय च नम ऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च ॥ ३१॥

नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्न्याय च नमः सोभ्याय ॥ ३२॥

नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः श्लोक्याय चावसान्याय च नम उर्वर्याय च खल्याय च नमो वन्याय ॥ ३३॥

नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम आशुषेणाय चाशुरथाय च नमः शूराय चावभेदिने च नमो बिल्मिने ॥ ३४॥

नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः श्रुताय॑ च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे ॥ ३५॥

नमो धृष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च ॥ ३६॥

नम स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च नमः कूप्याय ॥ ३७॥

नमो कूप्याय चावट्याय च नमो वीध्राय चातप्याय च नमो मेध्याय च विद्युत्याय च नमो वार्याय चावर्षाय च नमो वात्याय ॥ ३८॥

नमो वात्याय च रेष्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गवे ॥ ३९॥

नमः शङ्गवे च पशुपतये च नम उग्राय च भीमाय च नमोऽग्रेवधाय च दूरेवुधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय ॥ ४०॥

नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥ ४१॥

नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमस्तीर्थ्याय च कूल्याय च नमुह शव्याय च फेन्याय च नमः सिकत्याय ॥ ४२॥

नमः सिकत्याय च प्रवाह्याय च नमः किंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नम इरिण्याय च प्रपथ्याय च नमो व्रज्याय ॥ ४३॥

नमो व्रज्याय च गोष्ठ्याय च नमस्तल्प्याय च गेह्याय च नमो हृदयाय च निवेष्प्याय च नमः काट्याय च गह्वरेष्ठाय च नमः शुष्क्याय ॥ ४४॥

नमः शुष्क्याय च हरित्याय च नमः पांसव्याय च रजस्याय च नमो लोप्या॑य चोलप्याय च नम ऊर्व्याय च सूर्व्याय च नमः पर्णाय ॥ ४५॥

नमः पर्णाय च पर्णशदाय च नम उद्गरमाणाय चाभिघ्नते च नम आखिदते च प्रखिदते च नम इषुकृद्भ्यो धनुष्कृद्भ्यश्च वो नमो नमो वः किरिकेभ्यो देवानां हृदयेभ्यो नमो विचिन्वत्केभ्यो नमो विक्षिणत्केभ्यो नम आनिर्हतेभ्यः ॥ ४६॥

द्रापेऽअन्धसस्पते दरिद्र नीललोहित ।
आसां प्रजानामेषां पशूनां मा भेर्मा रोङ्मा च नः किञ्चनाममत् ॥ ४७॥

इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतीः ।
यथा शमसद्विपदे चतुष्पदे विश्वं पुष्टं ग्रामेऽअस्मिन्ननातुरम् ॥ ४८॥

या ते रुद्र शिवा तनूः शिवा विश्वाहा भेषजी ।
शिवा रुतस्य भेषजी तया नो मृड जीवसे ॥ ४९॥

परि नो रुद्रस्य हेति वृणक्तु त्वेषस्य दुर्मतिरघायोः ।
अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृड ॥ ५०॥

मीढुष्टम शिव॑तम शिवो नः सुमना भव ।
परमे वृक्ष आयुधं निधाय कृत्तिं वसान आचर पिनाकं बिभ्रदागहि ॥ ५१॥

विकिरिद्र विलोहित नमस्तेऽअस्तु भगवः ।
यास्ते सहस्रं हेतयोऽन्यमस्मन्निवपन्तु ताः ॥ ५२॥

सहस्राणि सहस्रशो बाह्वोस्तव हेतयः ।
तासामीशानो भगवः पराचीना मुखाः कृधि ॥ ५३॥

असङ्ख्याता सहस्राणि ये रुद्रा अधिभूम्याम् ।
तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ५४॥

अस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अधि ।
तेषां सहस्त्रयोजने धन्वान्यवतन्मसि ॥ ५५॥

नीलग्रीवाः शितिकण्ठाः दिवां रुद्राः उपश्रिताः ।
तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ५६॥

नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः ।
तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ५७॥

ये वृक्षेषु शष्पिञ्जराः नीलग्रीवाः विलोहिताः ।
तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ५८॥

ये भूतानामधिपतयो विशिखासः कपर्दिन ।
तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ५९॥

ये पथां पथिरक्षयः ऐलबृदाः आयुर्युधः ।
तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ६०॥

ये तीर्थानि प्रचरन्ति सृकाहस्ताः निषङ्गिणः ।
तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ६१॥

येऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।
तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ६२॥

य एतावन्तश्च भूयांसश्च दिशो रुद्राः वितस्थिरे ।
तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ६३॥

नमोऽस्तु रुद्रेभ्यो ये दिवि येषां वर्षमिषवः ।
तेभ्यो दश प्राचीर्दर्श दक्षिणाः दश प्रतीचीर्दशोदीचीर्दशोर्ध्वाः ।
तेभ्यो नमोऽस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः ॥ ६४॥

नमोऽस्तु रुद्रेभ्यो येऽन्तरिक्षे येषां वातः इषवः ।
तेभ्यो दश प्राचीर्दश दक्षिणाः दश प्रतीचीर्दशोदीचीर्दशोर्ध्वाः ।
तेभ्यो नमोऽस्तु ते नऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः ॥ ६५॥

नमोऽस्तु रुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवः ।
तेभ्यो दश प्राचीर्दश दक्षिणाः दश प्रतीचीर्दशोचीर्दशोर्ध्वाः ।
तेभ्यो नमोऽस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः ॥ ६६॥

इति रुद्रे पञ्चमोऽध्यायः ॥