रुद्राष्टाध्यायी दशमोऽध्यायः

अथ स्वस्तिप्रार्थनाः

ॐ स्वस्ति नः इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नः अस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नः बृहस्पतिर्दधातु ॥ १॥

पयः पृथिव्यां पयः ओषधीषु पयः दिव्यन्तरिक्षे पयः धाः ।
पयस्वतीः प्रदिशः सन्तु मह्यम् ॥ २॥

विष्णो रराटमऽसि विष्णोः श्नप्त्रेस्थो विष्ष्णोः स्यूरसि विष्णोर्धृवोऽसि ॥
वैष्णवमऽसि वैष्णवे त्वा ॥ ३॥

अग्निर्देवता वातौ दे॒वता सूर्यो देवता चन्द्रमा देवता वसवो देवता रुद्रा देवता आदित्या देवता मरुतो देवता विश्वेदेवा देवता बृहस्पतिर्देवता इन्द्रो देवता वरुणो देवता ॥ ४॥

सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः ।
भवे भवे नातिभवे भवस्व मां भवोद्भयाय नमः ॥ ५॥

वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमः बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः ॥ ६॥

अघोरेभ्योऽथ घोरेभ्यो धोरघोरतरेभ्यः ।
सर्वेभ्यः सर्वशर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः ॥ ७॥

तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥ ८॥

ईशानः सर्वविद्यानाम् इश्वरः सर्वभूतानाम् ।
ब्रह्माधिपतिः ब्रह्मणोऽधिपतिः ब्रह्मा शिवो मेऽस्तु सदाशिवोऽम् ॥ ९॥

शिवोनामासि स्वधितिस्ते पिता नमस्तेऽस्तु मां मा हिंसीः ।
निवर्तयाम् म्यायुषे ऽन्नाद्याय प्रजननाय रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय ॥ १०॥

विश्वानि देवसवितः दुरितानि परासुव । यद्भद्रं तन्न आसुव ॥ ११॥
द्यौः शान्तिरन्तरिक्षः शान्तिः पृथिवी शान्तिरापः शान्तिरोषधय शान्ति ।
वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्मशान्तिः सर्वं शान्तिः शान्तिरेव शान्तिः सामाशान्तिरेधि ॥ १२॥

अनेन रुद्राभिषेककर्मणा भवानीशङ्करः प्रीयतां न मम इति रुद्राष्टाध्यायी समाप्ता ॥