रुद्राष्टाध्यायी प्रथमोऽध्यायः
सङ्कल्पम्
हरिः ॐ गणानां त्वा गणपतिं हवामहे
प्रियाणां त्वा प्रियपतिं हवामहे
निधीनां त्वा निधीपतिं हवामहे वसो मम ।
अहं अजानि गर्भधम् त्त्वं अजाऽसि गर्भधम् ॥ १॥
गायत्री त्रिष्टुप जगति अनुष्टुप् पङ्क्त्यासह ॥
बृहति उष्णिहा ककुप् सूचीभिः शम्यन्तु त्वा ॥ २॥
द्विपदायाः चतुषपदाः त्रिपदायाः च षट्पदाः ।
विच्छन्दायाः च सच्छन्दाः सूचीभिः शम्यन्तु त्वा ॥ ३॥
सहस्तोमाः सहछन्दसः आवृतः सहप्रमाः ऋषयः सप्तदैव्याः ॥
पूर्वेषां पन्थाम् अनुदृश्य धीरा अन्यालेभिरे रथ्यो न रश्मीन् ॥ ४॥
यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति ॥
दूरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु ॥ ५॥
येन कर्माणि अपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः ॥
यत् अपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ ६॥
यत्प्रज्ञानं उतचेतो धृतिश्च यत् ज्योतिः अन्तः अमृतं प्रजासु ॥
यस्मात न ऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु ॥ ७॥
येन इदं भूतं भुवनं भविष्यत् परिगृहीतम् अमृतेन सर्वम् ॥
येन यज्ञः तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्तु ॥ ८॥
यस्मिन् ऋचः सामयजूंषि यस्मिन् प्रतिष्ठिता रथनाभौ इव आराः ॥
यस्मिन् चित्तं सर्वमोतं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ ९॥
सुषारथिः अश्वानिव यत् मनुष्प्यान् नेनीयते ऽभीशुभिः वाजिनः इव ॥
हृत्प्रतिष्ठं यत् अजिरं जविष्ठं तन्मे मनः शिवसङ्कल्पमस्तु ॥ १०॥
इति रुद्रे प्रथमोऽध्यायः ॥