पवित्रीकरण

ऊँ अपवित्रः पवित्रोवेत्यस्य वामदेव ऋषिः विष्णुः देवता गायत्री छन्दः हृदि पवित्रकरणे विनियोगः॥

ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः॥

ॐ पुण्डरीकाक्षः पुनातु
ॐ पुण्डरीकाक्षः पुनातु
ॐ पुण्डरीकाक्षः पुनातु।

विनियोग
ॐ पृथ्वीति मन्त्रस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्मो देवता आसने विनियोगः॥

आसन शुद्धि
ॐ पृथ्वि! त्वया धृता लोका देवि ! त्वं विष्णुना धृता।
त्वं च धारय मां देवि ! पवित्रां कुरु च आसनम्॥

शिखाबन्धन
ॐ मानस्तोके तनये मानऽआयुषि मानो गोषु मानोऽअश्वेषुरीरिषः।
मानो व्वीरान् रुद्रभामिनो व्वधीर्हविष्मन्तः सदमित्त्वा हवामहे ॥

ॐ चित् रूपिणि महामाये दिव्यतेजः समन्विते।
तिष्ठ देवि शिखाबद्धे तेजोवृद्धिं कुरुष्व मे॥

कुश धारण
ॐ पवित्रेस्थो वैष्णव्यौ सवितुर्व्वः प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः।
तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुनेतच्छकेयम् ॥

भूमि पञ्चोपचार पूजा
ॐ पृथिव्यै नमः ।
यजमान तिलक
ॐ आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः।