कलश पूजन

पृथ्वी की पूजा
ॐ भूरसि भूमिरसि अदितिरसि विश्वधाया विश्वस्य भुवनस्य धर्त्री।
पृथिवीं यच्छ पृथिवीं दृ Ủ ह पृथिवीं माहि Ủ सीः।

ॐ महीद्यौः पृथिवी चन इमं यज्ञं मिमिक्षताम्। पिपृतान्नो भरीमभिः ॥

ॐ धान्यमसि धिनुहि देवान्प्राणायत्त्वोदानायत्वा व्यानायत्वा
दीर्घानुप्रसितिमायुषेधान्देवो वः सविता हिरण्यपाणिः प्रतिगृभ्णात्वच्छिदे्रेण
पाणिना चक्षुषे त्वां महीनां पयोसि ॥

ॐ आजिघ्र कलशं मह्या त्वा विशत्विंदवः।
पुनः उर्जा निवर्तस्वसानः।
सहश्रन्धुक्ष्वोरुधारा पयस्वती पुनम्र्मा विशताद्रयिः॥

ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनीस्थो वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमासीद।

गन्ध (रोरी)
ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्।
ईश्वरीं सर्वभूतानां तामिहोपह्नये श्रियम्।

सर्वौषधि
ॐ या ओषधीः पूर्वा जाता देवेभ्यस्त्रिायुगं पुरा।
मनै नु बभ्रूणामहं शतं धामानि सप्त च॥

धान्य
ॐ धान्यमसि धिनुहि देवान्प्राणायत्त्वोदानायत्वा व्यानायत्वा
दीर्घानुप्रसितिमायुषेधान्देवो वः सविता हिरण्यपाणिः प्रतिगृभ्णात्वच्छिदे्रेण
पाणिना चक्षुषे त्वां महीनां पयोसि॥

दूर्वा
ॐ काण्डात् काण्डात् प्ररोहन्ती परुषः परुषस्परि।
एवानो दूर्वे प्रतनु सहश्रेण शतेन च॥

पंचपल्लव
ॐ अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता गोभाज इत्किला सथ यत्सनवथ पूरुषम्॥

सप्तमृत्तिका
ॐ स्योना पृथिविनो भवानृक्षरा निवेशनी। यच्छा नः शर्म्म सप्रथाः।

पूगीफल
ॐ याः फलिनीर्या अफला अपुष्पायाश्च पुष्पिणीः।
बृहस्पति प्रसूतास्ता नो मुञ्चन्त्व Ủ हसः॥

पंचरत्न
ॐ परिवाजपतिः कविरग्निर्हव्यान्यक्रमीत् दधद्रत्नानि दाशुषे॥

दक्षिणा
ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्।
सदाधार पृथिवीं द्यामुते मां कस्मै देवाय हविषा विधेम॥

कुश
ॐ पवित्रोस्थो वैष्णव्यौ सविर्तुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रोण सूर्यस्य रश्मिभिः।
तस्य ते पवित्रापते पवित्रापूतस्य यत्कामः पुने तच्छकेयम् ॥

पुष्प , लाल वस्त्र या मौली
ॐ युवा सुवासाः परिवीत आगात् स उश्रेयान् भवति जायमानः।
तं धीरासः कवय उन्नयन्ति साध्यो मनसा देवयन्तः॥

चावलपूर्ण पात्र
ॐ पूर्णादर्वि परापत सुपूर्णा पुनरापत।
वस्नेव विक्रीणावहा इषमूर्ज र्ठ. शतक्रतो॥

नारियल
ॐ श्रीश्च ते लक्ष्मीश्च पत्न्यावहो रात्रो पाश्र्वे नक्षत्राणि रुपमश्विनौ व्यात्तम्।
इष्णन्निषाणामुम्म इषाण सर्वलोकम्म इषाण॥

वरुण का आवाहन
ॐ तत्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः।
अहेडमानो वरुणेह बोद्ध्युरुश र्ठ. समान आयुः प्रमोषीः॥

ॐ भूर्भुवः स्वः अस्मिन् कलशे वरुणं साङ्ं
सपरिवारं सायुधं सशक्तिकम् आवाहयामि स्थापयामि ।
ध्यानम्-वरुणः पाशभूत्सौम्यः प्रतीच्यां मकराश्रयः।
पाशहस्तात्मको देवो जलराश्यधिपो महान् ॥

अक्षत-पुष्प
ॐ मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं
यज्ञ र्ठ. समिमं दधातु। विश्वेदेवा स इह मादयन्तामों प्रतिष्ठ।
ॐ वरुणाय नमः सुप्रतिष्ठितो वरदो भव।

ॐ भूर्भुवः स्वः अपां पतये वरुणाय नमः ( पञ्चोपचार या षोडशोपचार पूजन )।

पुष्पाञ्जलि
ॐ तत्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः।
अहेडमानो वरुणेह बोद्ध्युरुश र्ठ. समान आयुः प्रमोषीः॥

ॐ अनेन पूजनेन वरुणः प्रीयताम् ।
नदियों का आवाहन-
ॐ सर्वे समुद्राः सरितः स तीर्थानि जलदा नदाः।
आयान्तु मम शान्त्यर्थं दुरितक्षयकारकाः॥

अक्षत
ॐ ऋग्वेदाय नमः। ॐ यजुर्वेदाय नमः।
ॐ सामवेदाय नमः। ॐ अथर्ववेदाय नमः।
ॐ कलशाय नमः। ॐ रुद्राय नमः।
ॐ समुद्राय नमः। ॐ गङ्गायै नमः।
ॐ यमुनायै नमः। ॐ सरस्वत्यै नमः। ॐ कलशकुम्भाय नमः।

ॐ कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः।
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः॥

कुक्षौ तु सागराः सप्त सप्तद्वीपा वसुन्धरा।
ऋग्वेदोऽथ यजुर्वेदः सामवेदोः अथर्वणः॥

अंगैश्च सहिताः सर्वे कलशन्तु समाश्रिताः।
अत्रा गायत्री सावित्री शान्तिः पुष्टिकरी तथा।
आयान्तु यजमानस्य दुरितक्षयकारकाः॥

गायत्रयादिभ्यो नमः ( पञ्चोपचार पूजन )।
प्रणाम
ॐ देवदानवसम्वादे मध्यमाने महोदधौ।
उत्पन्नोसि तदा कुम्भ विघृतो विष्णुना स्वयम्॥

त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः।
त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः॥

शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः।
आदित्या वसवो रुद्रा विश्वेदेवाः सपैतृकाः॥

त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदः।
त्वत्प्रसादात् इदं कर्म कर्तुमीहे जलोद्भव।
सान्निध्यं कुरु मे देव प्रसन्नो भव सर्वदा॥

नमो नमस्ते स्फटिकप्रभाय सुश्वेतहाराय सुमङ्लाय।
सुपाशहस्ताय झषासनाय जलाधिनाथाय नमो नमस्ते॥

जल
ॐ अनया पूजया कलशे वरुणादि आवाहितदेवताः प्रीयन्ताम् ॥

इति कलशपूजाविधि।