गणेश द्वादशनाम स्तोत्रम्
शुक्लांम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये ॥1॥
अभीप्सितार्थसिद्ध्यर्थं पूजेतो य: सुरासुरै: ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नम: ॥2॥
गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचन: ।
प्रसन्न भव मे नित्यं वरदातर्विनायक ॥3॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णक:
लम्बोदरश्च विकटो विघ्ननाशो विनायक: ॥4 ॥
धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजानन:।
द्वादशैतानि नामानि गणेशस्य य: पठेत् ॥5॥
विद्यार्थी लभते विद्यां धनार्थी विपुलं धनम् ।
इष्टकामं तु कामार्थी धर्मार्थी मोक्षमक्षयम् ॥6॥
विद्यारभ्मे विवाहे च प्रवेशे निर्गमे तथा
संग्रामे संकटेश्चैव विघ्नस्तस्य न जायते ॥7॥