दिग् रक्षण

1.
पूर्वे रक्षतु वाराहः आग्नेयां गरुड़ध्वजः।
दक्षिणे पद्मनाभस्तु नैऋत्यां मधुसूदनः॥

पश्चिमे चैव गोविन्दो वायव्यां तु जनार्दनः।
उत्तरेश्रीपतिःरक्षेत् ईशाने तु महेश्वरः॥

ऊर्ध्वं रक्षतु धाता वोऽधोऽनन्तश्च रक्षतु।
एवं दशदिशो रक्षेद् वासुदेवो जनार्दनः॥

रक्षाहीनं तु यत्स्थानं रक्षत्वीशो ममाद्रिधृक्।
यदत्र संस्थितं भूतस्थानम् आश्रित्यसर्वदा ॥

स्थानं त्यक्त्वातु तत्सर्वं यत्रस्थं तत्र गच्छतु।
अपक्रामन्तु ते भूता ये भूता भूतले स्थिताः॥

ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया।
अपक्रामन्तु भूतानि पिशाचाः सर्वतो दिशम्॥

सर्वेषामविरोधेन पूजाकर्म समारभे॥-

2.
ॐ पूर्वे रक्षतु गोविन्द आग्नेय्यां गरुडध्वजः।
याम्ये रक्षतु वाराहो नारसिंहस्तु नैऋते॥

केशवो वारुणीं रक्षेद् वायव्यां मधुसूदनः।
उत्तरे श्रीधरोरक्षेदीशाने च गदाधरः॥

ऊर्ध्वं गोवर्द्धनो रक्षेदधस्तात्तु त्रिविक्रमः।
एवं दश दिशो रक्षेद्वासुदेवो जनार्दनः॥

यज्ञाग्रे पातु मा शंखः पृष्ठे पद्मन्तु रक्षतु।
वामपाश्वे गदा रक्षेद्दक्षिणे च सुदर्शनः॥

उपेन्द्रः पातु ब्राह्मणमाचार्यं पातुवामनः।
अच्युतः पातु ऋग्वेदं यजुर्वेदमधोक्षजः॥

कृष्णो रक्षतु सामाख्यमथर्वाणन्तु माधवः।
विप्रा ये चोपदेष्टारस्तांश्च दामोदरोऽवतु॥

यजमानं सपत्नीक पुण्डरीकविलोचनः।
रक्षाहीनन्तु यत्स्थानं तत्सर्वं रक्षताद्धरिः॥